Şarkı Sözleri

वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा
श्री गणेशाय नमः
नारद उवाचो
प्रणम्य शिरसा देवं गौरी पुत्रं विनायकम्
भक्तावासं स्मरेन्नित्यं आयुःकामार्थसिद्धये
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम्
लम्बोदरं पचमं च षष्ठं विकटमेव च
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम्
नवमं भालचन्द्रं च दशमं तु विनायकम्
एकादशं गणपतिं द्वादशं तु गजाननम्
द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः
न च विघ्नभयं तस्य सर्वसिद्धिकरः प्रभु
विद्यार्थी लभते विद्यां धनार्थी लभते धनम्
पुत्रार्थी लभते पुत्रां मोक्षार्थी लभते गतिम्
जपेद गपतिस्तोत्रं षड्भिर्मासैः फलं लभेत्
संवत्सरेण सिद्धिं च लभते नात्र संशयः
अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत्
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः
इति श्री नारद पुराणे संकटनाशन नाम श्री गणपति स्तोत्रं संपूर्णम्

Writer(s): Mukesh Pandey

API Calls

Spotify üzerinden skroplama mı olsun?

Spotify hesabınla Last.fm hesabını bağla ve herhangi bir Spotify uygulaması, herhangi bir cihaz veya platform üzerinden dinlediğin her şeyi skropla.

Spotify'a bağlan

Son ver