Playing via Spotify Playing via YouTube
Skip to YouTube video

Loading player…

Scrobble from Spotify?

Connect your Spotify account to your Last.fm account and scrobble everything you listen to, from any Spotify app on any device or platform.

Connect to Spotify

Dismiss

A new version of Last.fm is available, to keep everything running smoothly, please reload the site.

Lyrics


सौराष्ट्रदेशे विशदेऽतिरम्ये,
ज्योतिर्मयं चन्द्रकलावतंसम् |
भक्तप्रदानाय कृपावतीर्णं,
तं सोमनाथं शरणं प्रपद्ये || १ ||

ॐ नमः शिवायः
जय सोमनाथं
ॐ नमः शिवायः

Lyrics continue below...

Don't want to see ads? Subscribe now

श्रीशैलशृङ्गे विविधप्रसङ्गे,
शेषाद्रिशृङ्गेऽपि सदा वसन्तम् |
तमर्जुनं मल्लिकपूर्वमेनं,
नमामि संसारसमुद्रसेतुम् || २ ||

ॐ नमः शिवायः
जय मल्लिकार्जुनं
ॐ नमः शिवायः

अवन्तिकायां विहितावतारं,
मुक्तिप्रदानाय च सज्जनानाम् |
अकालमृत्योः परिरक्षणार्थं,
वन्दे महाकालमहासुरेशम् || ३ ||

ॐ नमः शिवायः
जय महाकालम
ॐ नमः शिवायः

कावेरिकानर्मदयोः पवित्रे,
समागमे सज्जनतारणाय |
सदैव मान्धातृपुरे वसन्तं,
ओङ्कारमीशं शिवमेकमीडे || ४ ||

ॐ नमः शिवायः
जय ओम्कारेश्वर
ॐ नमः शिवायः

पूर्वोत्तरे प्रज्वलिकानिधाने,
सदा वसं तं गिरिजासमेतम् |
सुरासुराराधितपादपद्मं,
श्रीवैद्यनाथं तमहं नमामि || ५ ||

ॐ नमः शिवायः
जय वैजनाथं
ॐ नमः शिवायः

याम्ये सदङ्गे नगरेऽतिरम्ये,
विभूषिताङ्गं विविधैश्च भोगैः |
सद्भक्तिमुक्तिप्रदमीशमेकं,
श्रीनागनाथं शरणं प्रपद्ये || ६ ||

ॐ नमः शिवायः
जय नागनाथं
ॐ नमः शिवायः

महाद्रिपार्श्वे च तटे रमन्तं,
सम्पूज्यमानं सततं मुनीन्द्रैः |
सुरासुरैर्यक्ष महोरगाढ्यैः
केदारमीशं शिवमेकमीडे || ७||

ॐ नमः शिवायः
जय केदारनाथं
ॐ नमः शिवायः

सह्याद्रिशीर्षे विमले वसन्तं,
गोदावरितीरपवित्रदेशे |
यद्दर्शनात् पातकं पाशु नाशं,
प्रयाति तं त्र्यम्बकमीशमीडे || ८ ||
ॐ नमः शिवायः
जय त्रायम्बकेश्वराम
ॐ नमः शिवायः

श्रीताम्रपर्णीजलराशियोगे,
निबध्य सेतुं विशिखैरसङ्ख्यैः |
श्रीरामचन्द्रेण समर्पितं तं,
रामेश्वराख्यं नियतं नमामि || ९ ||

ॐ नमः शिवायः
जय रामेश्वरम
ॐ नमः शिवायः

यं डाकिनिशाकिनिकासमाजे,
निषेव्यमाणं पिशिताशनैश्च |
सदैव भीमादिपदप्रसिद्धं
तं शङ्करं भक्तहितं नमामि || १० ||

ॐ नमः शिवायः
जय भीमाशंकरं
ॐ नमः शिवायः

सानन्दमानन्दवने वसन्तं,
आनन्दकन्दं हतपापबृन्दम् |
वाराणसीनाथमनाथनाथं,
श्रीविश्वनाथं शरणं प्रपद्ये || ११ ||

ॐ नमः शिवायः
जय विश्वनाथं
ॐ नमः शिवायः

इलापुरे रम्यविशालकेऽस्मिन्,
समुल्लसन्तं च जगद्वरेण्यम् |
वन्दे महोदारतरस्वभावं,
घृष्णेश्वराख्यं शरणं प्रपद्ये || १२ ||

ॐ नमः शिवायः
जय घर्षणेश्वरम
ॐ नमः शिवायः

ज्योतिर्मयद्वादशलिङ्गकानां,
शिवात्मनां प्रोक्तमिदं क्रमेण |
स्तोत्रं पठित्वा मनुजोऽतिभक्त्या,
फलं तदालोक्य निजं भजेच्च ||

ॐ नमः शिवायः
जय नागेश्वरम
ॐ नमः शिवायः

Writer(s): ASHIT DESAI

Don't want to see ads? Subscribe now

Features

API Calls